सोमवार, 20 मार्च 2023

ईशावास्योपनिषद्

 ईशावास्योपनिषद्

शान्ति-पाठ:

ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते |

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||         

*ॐ शान्ति:  शान्ति: शान्ति: *


ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्‍तेन भुञ्जीथा मा गृध: कस्य स्विद् धनम् ॥१॥


कुर्वन्‍नेवेह कर्माणि जिजीविषेच्छतँ समा: ।

एवं त्वयि नान्‍यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥


असूर्या नाम ते लोका अन्‍धेन तमसाऽऽवृता: ।

तांस्ते प्रेत्याभिगच्छन्‍ति ये के चात्महनो जना :॥३॥


अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्‍वा दधाति ॥४॥


तदेजति तन्नैजति तद् दूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत: ॥५॥


यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६।।

अनुवाद- परन्तु जो मनुष्य सम्पूर्ण प्राणियों को परमात्मा में ही निरन्‍तर देखता है और सम्पूर्ण  प्राणियों में परमात्मा को देखता है (अर्थात् परमात्मा का दर्शन करता है), उससे (ऐसे दर्शन के कारण वह कभी भी) किसी की निन्‍दा अर्थात् (किसी से घृणा) नहीं करता अर्थात् उसको तो जब अन्य सभी में ईश्वर के दर्शन होते हैं तो सभी उसके प्रिय या अभीष्ट बन जाते हैं । ऐसी स्थिति में किसी के प्रति द्वेष या घृणा का प्रश्‍न ही नहीं उठता ?

यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानत: ।

तत्र मोह: क: शोक एकत्वमनुपश्यत: ॥७।।

अनुवाद- जिस स्थिति में परब्रह्म परमेश्‍वर को भलीभाँति जानने वाले महापुरुष के (अनुभव में) सम्पूर्ण प्राणी एक मात्र परमात्मा स्वरुप ही हो जाते हैं, उस अवस्था में (उस) एकता का (एकमात्र परमेश्वर का) निरन्‍तर साक्षात् करने करने वाले पुरुष के लिए कौन सा मोह (और) कौन सा शोक (रह जाता है?) अर्थात् वह शोक-मोह से सर्वथा रहित, आनन्‍द-परिपूर्ण हो जाता है ।

    स पर्यगाच्छुक्रमकायमव्रण-

 मस्नाविरँ  शुद्धमपापविद्धम्।

कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतो-

ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥


अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।

ततो भूय इव ते तमो य उ विद्यायां रताः॥९॥


अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया।

इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे॥१०॥


विद्यां चाविद्यां च यस्तद् वेदोभय सह

अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ ११ ॥


अन्धं तमः प्रविशन्ति येऽसभूतिमुपासते ।

ततो भूय इव ते तमो य उ सम्भूत्या रताः ॥ १२ ॥


अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे।। १३ ।।


सम्भूतिं च विनाशं च यस्तद् वेदोभयं सह ।

विनाशेन मृत्यु तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४॥


हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥


पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।

यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥


वायुरनिलममृतमथेदं भस्मान्तळे शरीरम्।

ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर॥ १७॥


अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । 

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें