सप्तमः सर्गः
अथ धृत-चतुरस्रवेद-पीठं कविमुपनीय सुतौ
विदेहजा तौ।
शरवणभवतेजसौ सुयोगे
विहितनतिर्विनिवेदयाम्बभूवे।।1।।
संकेतः-सुतौ कविं कवेर्वाल्मीकेः
पार्श्वमुपनीयेत्यन्वयः शरवणभवः कार्त्तिकेयः। सुयोगे शोभने योगे।। 1।।
नियतमिह चराचरे प्रपञ्चे नयनगतश्च परोक्षतां
श्रितश्च।
न खलु जगति कश्चनापि भावो भवति कवेर्विसिनोति
यं न दृष्टिः ।। 2।।
ऋषि-मुनि-कवि-ता-त्रिवेणिरार्या प्रवहति
मानसनाम्नि वः प्रयागे।
प्रभवति खलु विश्वदैवते वो हृदयमिदं ननु
कार्मणे विधाने ।। 3।।
संकेतः-भाववचनस्य तलो द्वन्द्वात् परत्वात्
त्रितयेनापि ऋषिप्रभृतिनाऽभिसंबन्धः। विश्वदैवतं विश्वमेव देवता यत्र तादृशं
कार्मणं वशीकरणम्। कवित्वं हि मुनित्वं सोपानयति मुनित्वमिव ऋषित्वम्।। 3।।
शिशुहृदि शयिता च येन विद्याज्वलनशिखा
स्पृशतीव वैश्वरूप्यम्।
शिवतममिदमस्ति कारणं
सत्कुलपति-पावनशारदाऽनुभावः ।। 4।।
संकेतः-एतद्धि विश्वविद्यालयस्वरूपम्।। 4।।
पितरमिव भवन्तमाश्रिताहं
भरतमहीलघुलेष्टुकाविमौ द्वौ।
निज-निजजनता-परिष्क्रियायै चरणयुगे भवतो
निवेदयामि ।। 5।।
संकेतः-भरतमही भारतं वर्षम्। निजस्य पुत्रयोः
स्वव्यक्तित्वस्य, निजजनतायाः, पुत्रयोरेव या जनता तयोः परिष्क्रियाया इत्यर्थः।। 5।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें